Sukta 8.35
स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः । आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥
स्वाहा॑कृतस्य तृम्पतं सु॒तस्य॑ देवा॒वन्ध॑सः । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
svā́hākṛtasya tṛmpataṃ sutásya devāv ándhasaḥ | ā́ yātam aśvinā́ ā́ gátam avasyúr vā́m aháṃ huve dhattáṃ rátnāni dāśúṣe ||
Be satisfied with the pressed Soma-essence that is made ready with svāhā, O divine pair. Come, O Aśvins—arrive. Seeking your saving help I call you: bestow the treasures of fullness upon the giver.
स्वाहा॑ऽकृतस्य । तृ॒म्प॒त॒म् । सु॒तस्य॑ । दे॒वौ॒ । अन्ध॑सः । आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥स्वाहाकृतस्य । तृम्पतम् । सुतस्य । देवौ । अन्धसः । आ । यातम् । अश्विना । आ । गतम् । अवस्युः । वाम् । अहम् । हुवे । धत्तम् । रत्नानि । दाशुषे ॥svāhākṛtasya | tṛmpatam | sutasya | devau | andhasaḥ | ā | yātam | aśvinā | ā | gatam | avasyuḥ | vām | aham | huve | dhattam | ratnāni | dāśuṣe