Sukta 8.35
अर्वाग्रथं नि यच्छतं पिबतं सोम्यं मधु । आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥
अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
arvā́g ráthaṃ ní yacchatam píbataṃ somyáṃ mádhu | ā́ yātam aśvinā́ ā́ gátam avasyúr vā́m aháṃ huve dhattáṃ rátnāni dāśúṣe ||
Turn your chariot hither and set it down near; drink the Soma-honey. Come, O Aśvins—arrive. Seeking your saving help, I call you: place in the giver the jewels of fullness (the inner riches).
अ॒र्वाक् । रथ॑म् । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥अर्वाक् । रथम् । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु । आ । यातम् । अश्विना । आ । गतम् । अवस्युः । वाम् । अहम् । हुवे । धत्तम् । रत्नानि । दाशुषे ॥arvāk | ratham | ni | yacchatam | pibatam | somyam | madhu | ā | yātam | aśvinā | ā | gatam | avasyuḥ | vām | aham | huve | dhattam | ratnāni | dāśuṣe