Sukta 8.35
रश्मीँरिव यच्छतमध्वराँ उप श्यावाश्वस्य सुन्वतो मदच्युता । सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥
र॒श्मीँरि॑व यच्छतमध्व॒राँ उप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥
raśmī́ṃr iva yacchatam adhvarā́ṃ úpa śyāvā́śvasya sunvató mada-cyutā | sajóṣasā uṣásā sū́ryeṇa cā́śvinā tiroáhnyam ||
O Aśvins who stream the rapture, draw near to the sacrifices as rays draw near—toward Śyāvāśva who presses Soma. United with Dawn and Sun, pass through the day’s hiddenness and bring the straightening light of your help.
र॒श्मीन्ऽइ॑व । य॒च्छ॒त॒म् । अ॒ध्व॒रान् । उप॑ । श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । म॒द॒ऽच्यु॒ता॒ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥रश्मीन्इव । यच्छतम् । अध्वरान् । उप । श्यावअश्वस्य । सुन्वतः । मदच्युता । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥raśmīn-iva | yacchatam | adhvarān | upa | śyāva-aśvasya | sunvataḥ | mada-cyutā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā