Sukta 8.35
अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा । सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥
अ॒ग्निनेन्द्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥
agnínendreṇa váruṇena víṣṇunādityái rudráir vásubhiḥ sacābhúvā | sajóṣasā uṣásā sū́ryeṇa ca sómaṃ pibatam aśvinā ||
In companionship with Agni and Indra, with Varuṇa and Viṣṇu, with the Ādityas, Rudras, and Vasus—harmonized with Dawn and with the Sun—drink the Soma, O Aśvins: take into yourselves the pressed delight and pour it through our being.
अ॒ग्निना॑ । इन्द्रे॑ण । वरु॑णेन । विष्णु॑ना । आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । स॒चा॒ऽभुवा॑ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥अग्निना । इन्द्रेण । वरुणेन । विष्णुना । आदित्यैः । रुद्रैः । वसुभिः । सचाभुवा । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥agninā | indreṇa | varuṇena | viṣṇunā | ādityaiḥ | rudraiḥ | vasu-bhiḥ | sacābhuvā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā