Sukta 8.35
धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः । सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
धे॒नूर्जि॑न्वतमु॒त जि॑न्वतं॒ विशो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥
dhenūr jínvatam utá jínvataṃ víśo hatáṃ rákṣāṃsi sédhatam amī́vāḥ | sajóṣasā uṣásā sū́ryeṇa ca sómaṃ sunvató aśvinā ||
O Aśvins, foster the streams of plenitude (the milking powers), and foster too our human communities; strike down the obscuring forces and repel the powers of illness. In harmony with Dawn and with the Sun, drink the Soma of the one who presses it—entering the being with a united delight.
धे॒नूः । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । विशः॑ । ह॒तम् । रक्षां॑सि । सेध॑तम् । अमी॑वाः । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥धेनूः । जिन्वतम् । उत । जिन्वतम् । विशः । हतम् । रक्षांसि । सेधतम् । अमीवाः । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥dhenūḥ | jinvatam | uta | jinvatam | viśaḥ | hatam | rakṣāṃsi | sedhatam | amīvāḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā