Sukta 8.35
अत्रेरिव शृणुतं पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता । सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥
अत्रे॑रिव शृणुतं पू॒र्व्यस्तु॑तिं श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥
atrér iva śṛṇutaṃ pūrvyá-stutiṃ śyāvā́śvasya sunvató mada-cyutā | sajóṣasā uṣásā sū́ryeṇa cā́śvinā tiroáhnyam ||
O Aśvins, you who pour out the ecstasy, hear the ancient praise as Atri once did—this hymn of Śyāvāśva who presses Soma. In harmony with Dawn and Sun, come through the spaces of the day’s concealment and make your presence effective within us.
अत्रेः॑ऽइव । शृ॒णु॒त॒म् । पू॒र्व्यऽस्तु॑तिम् । श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । म॒द॒ऽच्यु॒ता॒ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥अत्रेःइव । शृणुतम् । पूर्व्यस्तुतिम् । श्यावअश्वस्य । सुन्वतः । मदच्युता । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥atreḥ-iva | śṛṇutam | pūrvya-stutim | śyāva-aśvasya | sunvataḥ | mada-cyutā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā