Sukta 8.35
क्षत्रं जिन्वतमुत जिन्वतं नॄन्हतं रक्षांसि सेधतममीवाः । सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
क्ष॒त्रं जि॑न्वतमु॒त जि॑न्वतं॒ नॄन्ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥
kṣatráṃ jinvatam uta jinvatam nṝ́n hatáṃ rakṣā́ṃsi sédhatam amī́vāḥ | sajóṣasā uṣásā sū́ryeṇa ca sómaṃ sunvató aśvinā ||
Increase the kṣatra-power and increase the strong human energies; strike down the dark assailants and drive away the afflictions. In one accord with Dawn and with the Sun, drink the Soma of him who presses it, O Aśvins.
क्ष॒त्रम् । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । नॄन् । ह॒तम् । रक्षां॑सि । सेध॑तम् । अमी॑वाः । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥क्षत्रम् । जिन्वतम् । उत । जिन्वतम् । नॄन् । हतम् । रक्षांसि । सेधतम् । अमीवाः । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥kṣatram | jinvatam | uta | jinvatam | nṝn | hatam | rakṣāṃsi | sedhatam | amīvāḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā