Sukta 8.35
ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः । सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
ब्रह्म॑ जिन्वतमु॒त जि॑न्वतं॒ धियो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥
bráhma jinvatam uta jinvatam dhíyo hatáṃ rakṣā́ṃsi sédhatam amī́vāḥ | sajóṣasā uṣásā sū́ryeṇa ca sómaṃ sunvató aśvinā ||
Increase the brahman-power and increase our thoughts; strike down the dark assailants and drive away the afflictions. In one accord with Dawn and with the Sun, drink the Soma of him who presses it, O Aśvins.
ब्रह्म॑ । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । धियः॑ । ह॒तम् । रक्षां॑सि । सेध॑तम् । अमी॑वाः । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ब्रह्म । जिन्वतम् । उत । जिन्वतम् । धियः । हतम् । रक्षांसि । सेधतम् । अमीवाः । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥brahma | jinvatam | uta | jinvatam | dhiyaḥ | hatam | rakṣāṃsi | sedhatam | amīvāḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā