Sukta 8.35
ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् । सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥
ऋ॒भु॒मन्ता॑ वृषणा॒ वाज॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥
ṛbhú-mantā vṛṣaṇā vāja-vantā marút-vantā jaritúr gacchatho hávam | sajóṣasā uṣásā sū́ryeṇa cādityáir yātam aśvinā ||
Rich in the Ṛbhus’ skill, O you two strong ones, rich in vāja, rich in Marut-force—come to the singer’s call. In one accord with Dawn and with the Sun, come with the Ādityas, O Aśvins.
ऋ॒भु॒ऽमन्ता॑ । वृ॒ष॒णा॒ । वाज॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ऋभुमन्ता । वृषणा । वाजवन्ता । मरुत्वन्ता । जरितुः । गच्छथः । हवम् । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥ṛbhu-mantā | vṛṣaṇā | vāja-vantā | marutvantā | jarituḥ | gacchathaḥ | havam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā