Sukta 8.35
अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् । सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥
अङ्गि॑रस्वन्ता उ॒त विष्णु॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥
aṅgíras-vantā uta víṣṇu-vantā marút-vantā jaritúr gacchatho hávam | sajóṣasā uṣásā sū́ryeṇa cādityáir yātam aśvinā ||
Bearing the Angiras power and bearing the Vishnu-force, bearing the Maruts’ dynamism, come to the singer’s call. In one accord with Dawn and with the Sun, come with the Ādityas, O Aśvins.
अङ्गि॑रस्वन्तौ । उ॒त । विष्णु॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥अङ्गिरस्वन्तौ । उत । विष्णुवन्ता । मरुत्वन्ता । जरितुः । गच्छथः । हवम् । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥aṅgirasvantau | uta | viṣṇu-vantā | marutvantā | jarituḥ | gacchathaḥ | havam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā