Sukta 8.35
जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
jáyataṃ ca prá stutáṃ ca prá cā́vataṃ pra-jā́ṃ ca dhattáṃ dráviṇaṃ ca dhattam | sajóṣasā uṣásā sū́ryeṇa córjaṃ no dhattam aśvinā ||
Be victorious, be manifestly praised, and advance our movement; establish in us the soul’s increase and establish the plenitude of substance. In one accord with Dawn and with the Sun, bestow on us sustaining energy, O Aśvins.
जय॑तम् । च॒ । प्र । स्तु॒त॒म् । च॒ । प्र । च॒ । अ॒व॒त॒म् । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥जयतम् । च । प्र । स्तुतम् । च । प्र । च । अवतम् । प्रजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥jayatam | ca | pra | stutam | ca | pra | ca | avatam | pra-jām | ca | dhattam | draviṇam | ca | dhattam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā