Sukta 8.35
हतं च शत्रून्यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिण॑: प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
hatáṃ ca śatrū́n yátataṃ ca mitríṇaḥ pra-jā́ṃ ca dhattáṃ dráviṇaṃ ca dhattam | sajóṣasā uṣásā sū́ryeṇa córjaṃ no dhattam aśvinā ||
Strike down the hostile forces and set our friendly powers in right striving; establish in us the soul’s increase and establish the plenitude of substance. In one accord with Dawn and with the Sun, bestow on us sustaining energy, O Aśvins.
ह॒तम् । च॒ । शत्रू॑न् । यत॑तम् । च॒ । मि॒त्रिणः॑ । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥हतम् । च । शत्रून् । यततम् । च । मित्रिणः । प्रजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥hatam | ca | śatrūn | yatatam | ca | mitriṇaḥ | pra-jām | ca | dhattam | draviṇam | ca | dhattam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā