Sukta 8.33
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे । अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥
क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद्वयो॑ दधे । अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ॥
ká īṃ veda suté sacā́ píbantaṃ kád váyo dadhe | ayáṃ yáḥ puró vibhinátty ójasā mandānáḥ śípry ándhasaḥ ||
Who indeed knows him, drinking with the pressed Soma—what breadth of being he has assumed? This is he who breaks the strongholds by force, exhilarated, the Shiprī, by the Soma-substance.
कः । ई॒म् । वे॒द॒ । सु॒ते । सचा॑ । पिब॑न्तम् । कत् । वयः॑ । द॒धे॒ । अ॒यम् । यः । पुरः॑ । वि॒ऽभि॒नत्ति॑ । ओज॑सा । म॒न्दा॒नः । शि॒प्री । अन्ध॑सः ॥कः । ईम् । वेद । सुते । सचा । पिबन्तम् । कत् । वयः । दधे । अयम् । यः । पुरः । विभिनत्ति । ओजसा । मन्दानः । शिप्री । अन्धसः ॥kaḥ | īm | veda | sute | sacā | pibantam | kat | vayaḥ | dadhe | ayam | yaḥ | puraḥ | vi-bhinatti | ojasā | mandānaḥ | śiprī | andhasaḥ