Sukta 8.33
दाना मृगो न वारणः पुरुत्रा चरथं दधे । नकिष्ट्वा नि यमदा सुते गमो महाँश्चरस्योजसा ॥
दा॒ना मृ॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे । नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हाँश्च॑र॒स्योज॑सा ॥
dā́nā mṛgó ná vāraṇáḥ purutrā́ cárathaṃ dadhe | nákiṣ ṭvā ní yamat ā́ suté gámo mahā́ṃś cárasy ójasā ||
Giver, like a wild beast, like an elephant, you take your roaming in many places. None restrains you; come to the pressed Soma—great, you move by your force.
दा॒ना । मृ॒गः । न । वा॒र॒णः । पु॒रु॒ऽत्रा । च॒रथ॑म् । द॒धे॒ । नकिः॑ । त्वा॒ । नि । य॒म॒त् । आ । सु॒ते । ग॒मः॒ । म॒हान् । च॒र॒सि॒ । ओज॑सा ॥दाना । मृगः । न । वारणः । पुरुत्रा । चरथम् । दधे । नकिः । त्वा । नि । यमत् । आ । सुते । गमः । महान् । चरसि । ओजसा ॥dānā | mṛgaḥ | na | vāraṇaḥ | puru-trā | caratham | dadhe | nakiḥ | tvā | ni | yamat | ā | sute | gamaḥ | mahān | carasi | ojasā