Sukta 8.33
यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्गृणे । य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः ॥
यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे । य आ॑क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इन्द्रो॒ यः पू॒र्भिदा॑रि॒तः ॥
yaḥ suṣávyaḥ sudákṣiṇa inó yaḥ sukrátur gṛṇé | ya ākaráḥ sahásrā yaḥ śatā́magha índro yaḥ pūrbhídā́ritaḥ ||
He whom we affirm in the chant—Indra who is perfectly effective on both sides (in all movements of the being), who gives the right ordering and discernment, who is lordly in force and of luminous will; who is a mine of a thousand energies, the giver of a hundred plenitudes; Indra who breaks the closed strongholds and sets the inner powers free.
यः । सु॒ऽस॒व्यः । सु॒ऽदक्षि॑णः । इ॒नः । यः । सु॒ऽक्रतुः॑ । गृ॒णे । यः । आ॒ऽक॒रः । स॒हस्रा॑ । यः । श॒तऽम॑घः । इन्द्रः॑ । यः । पूः॒ऽभित् । आ॒रि॒तः ॥यः । सुसव्यः । सुदक्षिणः । इनः । यः । सुक्रतुः । गृणे । यः । आकरः । सहस्रा । यः । शतमघः । इन्द्रः । यः । पूःभित् । आरितः ॥yaḥ | su-savyaḥ | su-dakṣiṇaḥ | inaḥ | yaḥ | su-kratuḥ | gṛṇe | yaḥ | ākaraḥ | sahasrā | yaḥ | śata-maghaḥ | indraḥ | yaḥ | pūḥ-bhit | āritaḥ