Sukta 8.33
पाहि गायान्धसो मद इन्द्राय मेध्यातिथे । यः सम्मिश्लो हर्योर्यः सुते सचा वज्री रथो हिरण्ययः ॥
पा॒हि गायान्ध॑सो॒ मद॒ इन्द्रा॑य मेध्यातिथे । यः सम्मि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा॑ व॒ज्री रथो॑ हिर॒ण्यय॑: ॥
pā́hi gāyāndhaso máda índrāya medhyātithe | yáḥ sáṃmiślo háryor yáḥ suté sácā vajrī́ rátho hiraṇyáyaḥ ||
Guard and chant the ecstasy of Soma’s essence for Indra, O Medhyātithi; for his is the harnessed joining of the two tawny powers, his is the golden chariot with the thunder-force, moving in companionship with the pressed delight—so that the victorious energy may be secured in us.
पा॒हि । गाय॑ । अन्ध॑सः । मदे॑ । इन्द्रा॑य । मे॒ध्य॒ऽअ॒ति॒थे॒ । यः । सम्ऽमि॑श्लः । हर्योः॑ । यः । सु॒ते । सचा॑ । व॒ज्री । रथः॑ । हि॒र॒ण्ययः॑ ॥पाहि । गाय । अन्धसः । मदे । इन्द्राय । मेध्यअतिथे । यः । सम्मिश्लः । हर्योः । यः । सुते । सचा । वज्री । रथः । हिरण्ययः ॥pāhi | gāya | andhasaḥ | made | indrāya | medhya-atithe | yaḥ | sam-miślaḥ | haryoḥ | yaḥ | sute | sacā | vajrī | rathaḥ | hiraṇyayaḥ