Sukta 8.33
कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् । पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥
कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म् । पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥
káṇvebhir dhr̥ṣṇavā́ dhr̥ṣádvā́jaṃ darṣi sahásriṇam | piśáṅgarūpaṃ maghavan vicarṣaṇe makṣū gómantam īmahe ||
With the Kāṇvas, O bold one, you grant the plenitude of force, rich in a thousand forms—radiant in tawny beauty. O bounteous lord who sees widely, swiftly we seek from you a herding of Light, a fullness of illumined riches.
कण्वे॑भिः । धृ॒ष्णो॒ इति॑ । आ । धृ॒षत् । वाज॑म् । द॒र्षि॒ । स॒ह॒स्रिण॑म् । पि॒शङ्ग॑ऽरूपम् । म॒घ॒ऽव॒न् । वि॒ऽच॒र्ष॒णे॒ । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥कण्वेभिः । धृष्णो इति । आ । धृषत् । वाजम् । दर्षि । सहस्रिणम् । पिशङ्गरूपम् । मघवन् । विचर्षणे । मक्षु । गोमन्तम् । ईमहे ॥kaṇvebhiḥ | dhṛṣṇo iti | ā | dhṛṣat | vājam | darṣi | sahasriṇam | piśaṅga-rūpam | magha-van | vi-carṣaṇe | makṣu | go--mantam | īmahe