Sukta 8.33
एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् । नायमच्छा मघवा शृणवद्गिरो ब्रह्मोक्था च सुक्रतुः ॥
एन्द्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यम् । नायमच्छा॑ म॒घवा॑ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतु॑: ॥
ā́ indra yāhi pītáye mádhu śaviṣṭha sómyam | ná ayam ácchā maghavā śṛṇávad gíro bráhmokthā́ ca sukrátuḥ ||
Come, O Indra, for the drinking of the honeyed Soma, O most puissant. Let not the bountiful one fail to hear our words—our mantric thought and our hymns—O thou of good effective will.
आ । इ॒न्द्र॒ । या॒हि॒ । पी॒तये॑ । मधु॑ । श॒वि॒ष्ठ॒ । सो॒म्यम् । न । अ॒यम् । अच्छ॑ । म॒घऽवा॑ । शृ॒णव॑त् । गिरः॑ । ब्रह्म॑ । उ॒क्था । च॒ । सु॒ऽक्रतुः॑ ॥आ । इन्द्र । याहि । पीतये । मधु । शविष्ठ । सोम्यम् । न । अयम् । अच्छ । मघवा । शृणवत् । गिरः । ब्रह्म । उक्था । च । सुक्रतुः ॥ā | indra | yāhi | pītaye | madhu | śaviṣṭha | somyam | na | ayam | accha | magha-vā | śṛṇavat | giraḥ | brahma | ukthā | ca | su-kratuḥ