Sukta 8.33
वहन्तु त्वा रथेष्ठामा हरयो रथयुजः । तिरश्चिदर्यं सवनानि वृत्रहन्नन्येषां या शतक्रतो ॥
वह॑न्तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युज॑: । ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो ॥
váhantu tvā rathéṣṭhām ā́ hárayo ratha-yújaḥ | tiráś cid aryáṃ sávanāni vṛtra-hann anyéṣāṃ yā́ śatakrato ||
May the tawny powers, yoked to the chariot, bring thee hither, O best of charioteers. Crossing even the rival, come to the Soma-pressings, O slayer of obstruction; surpass the others, O Shatakratu.
वह॑न्तु । त्वा॒ । र॒थे॒स्थाम् । आ । हर॑यः । र॒थ॒ऽयुजः॑ । ति॒रः । चि॒त् । अ॒र्यम् । सव॑नानि । वृ॒त्र॒ऽह॒न् । अ॒न्येषा॑म् । या । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥वहन्तु । त्वा । रथेस्थाम् । आ । हरयः । रथयुजः । तिरः । चित् । अर्यम् । सवनानि । वृत्रहन् । अन्येषाम् । या । शतक्रतो इति शतक्रतो ॥vahantu | tvā | rathesthām | ā | harayaḥ | ratha-yujaḥ | tiraḥ | cit | aryam | savanāni | vṛtra-han | anyeṣām | yā | śatakrato itiśata-krato