Sukta 8.33
वृषा सोता सुनोतु ते वृषन्नृजीपिन्ना भर । वृषा दधन्वे वृषणं नदीष्वा तुभ्यं स्थातर्हरीणाम् ॥
वृषा॒ सोता॑ सुनोतु ते॒ वृष॑न्नृजीपि॒न्ना भ॑र । वृषा॑ दधन्वे॒ वृष॑णं न॒दीष्वा तुभ्यं॑ स्थातर्हरीणाम् ॥
vṛ́ṣā sótā sunotu te vṛ́ṣann ṛjīpin ā́ bhara | vṛ́ṣā dádhanve vṛ́ṣaṇaṃ nadī́ṣv ā́ túbhyaṃ sthātar harīṇām ||
Let the strong presser express for thee the forceful Soma; O strong one, O straight-driving, come, bring it. For the strong Soma is being set in motion—the forceful stream in the rivers—so that for thee the two tawny powers may take their station.
वृषा॑ । सोता॑ । सु॒नो॒तु॒ । ते॒ । वृष॑न् । ऋ॒जी॒पि॒न् । आ । भ॒र॒ । वृषा॑ । द॒ध॒न्वे॒ । वृष॑णम् । न॒दीषु॑ । आ । तुभ्य॑म् । स्था॒तः॒ । ह॒री॒णा॒म् ॥वृषा । सोता । सुनोतु । ते । वृषन् । ऋजीपिन् । आ । भर । वृषा । दधन्वे । वृषणम् । नदीषु । आ । तुभ्यम् । स्थातः । हरीणाम् ॥vṛṣā | sotā | sunotu | te | vṛṣan | ṛjīpin | ā | bhara | vṛṣā | dadhanve | vṛṣaṇam | nadīṣu | ā | tubhyam | sthātaḥ | harīṇām