Sukta 8.33
वृषणस्ते अभीशवो वृषा कशा हिरण्ययी । वृषा रथो मघवन्वृषणा हरी वृषा त्वं शतक्रतो ॥
वृष॑णस्ते अ॒भीश॑वो॒ वृषा॒ कशा॑ हिर॒ण्ययी॑ । वृषा॒ रथो॑ मघव॒न्वृष॑णा॒ हरी॒ वृषा॒ त्वं श॑तक्रतो ॥
vṛ́ṣaṇas te abhī́śavo vṛ́ṣā kaśā hiraṇyáyī | vṛ́ṣā rátho maghavan vṛ́ṣaṇā hárī vṛ́ṣā tváṃ śatakrato ||
O Indra, lord of plenitude, thy impulsions are forceful; forceful is thy golden goad. Forceful is thy chariot, O giver of riches; forceful are thy two steeds. Forceful art thou, O Shatakratu—of a hundred efficacities.
वृष॑णः । ते॒ । अ॒भीश॑वः । वृषा॑ । कशा॑ । हि॒र॒ण्ययी॑ । वृषा॑ । रथः॑ । म॒घ॒ऽव॒न् । वृष॑णा । हरी॒ इति॑ । वृषा॑ । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥वृषणः । ते । अभीशवः । वृषा । कशा । हिरण्ययी । वृषा । रथः । मघवन् । वृषणा । हरी इति । वृषा । त्वम् । शतक्रतो इति शतक्रतो ॥vṛṣaṇaḥ | te | abhīśavaḥ | vṛṣā | kaśā | hiraṇyayī | vṛṣā | rathaḥ | magha-van | vṛṣaṇā | harī iti | vṛṣā | tvam | śatakrato itiśata-krato