Sukta 8.33
सत्यमित्था वृषेदसि वृषजूतिर्नोऽवृतः । वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥
स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः । वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः ॥
satyám itthā́ vṛṣédasi vṛ́ṣajūtir no ’vṛ́taḥ | vṛ́ṣā hy ugra śṛṇviṣe parāváti vṛ́ṣo arvāváti śrutáḥ ||
Truly, just so you are the bull of power; the bull-impulsion is not withheld from us. For you, O fierce one, are indeed the bull that hears—heard in the far, heard in the near.
स॒त्यम् । इ॒त्था । वृषा॑ । इत् । अ॒सि॒ । वृष॑ऽजूतिः । नः॒ । अवृ॑तः । वृषा॑ । हि । उ॒ग्र॒ । शृ॒ण्वि॒षे । प॒रा॒ऽवति॑ । वृषः॑ । अ॒र्वा॒ऽवति॑ । श्रु॒तः ॥सत्यम् । इत्था । वृषा । इत् । असि । वृषजूतिः । नः । अवृतः । वृषा । हि । उग्र । शृण्विषे । परावति । वृषः । अर्वावति । श्रुतः ॥satyam | itthā | vṛṣā | it | asi | vṛṣa-jūtiḥ | naḥ | avṛtaḥ | vṛṣā | hi | ugra | śṛṇviṣe | parāvati | vṛṣaḥ | arvāvati | śrutaḥ