Sukta 8.32
वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः । त्वं नो जिन्व सोमपाः ॥
व॒यं घा॑ ते॒ अपि॑ ष्मसि स्तो॒तार॑ इन्द्र गिर्वणः । त्वं नो॑ जिन्व सोमपाः ॥
vayáṃ ghā te ápi ṣmasi stotā́ra indra girvaṇaḥ | tváṃ no jinva somapāḥ ||
We indeed are yours, Indra, your singers, O accepter of the inspired word; do you quicken us—O Soma-drinker—into fullness of force and progress.
व॒यम् । घ॒ । ते॒ । अपि॑ । स्म॒सि॒ । स्तो॒तारः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । त्वम् । नः॒ । जि॒न्व॒ । सो॒म॒ऽपाः॒ ॥वयम् । घ । ते । अपि । स्मसि । स्तोतारः । इन्द्र । गिर्वणः । त्वम् । नः । जिन्व । सोमपाः ॥vayam | gha | te | api | smasi | stotāraḥ | indra | girvaṇaḥ | tvam | naḥ | jinva | soma-pāḥ