Sukta 8.32
न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर । कृषे तदिन्द्र पौंस्यम् ॥
न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र । कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥
ny àrbúdasya viṣṭápaṃ varṣmā́ṇaṃ bṛhatás tira | kṛṣé tád indra páuṃsyam ||
Thou didst cast down Arbuda’s stronghold, the swollen mass of the great obstruction; thou didst make it for breaking—this is thy manly might, O Indra, that clears the vast from what blocks it.
नि । अर्बु॑दस्य । वि॒ष्टप॑म् । व॒र्ष्माण॑म् । बृ॒ह॒तः । ति॒र॒ । कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥नि । अर्बुदस्य । विष्टपम् । वर्ष्माणम् । बृहतः । तिर । कृषे । तत् । इन्द्र । पौंस्यम् ॥ni | arbudasya | viṣṭapam | varṣmāṇam | bṛhataḥ | tira | kṛṣe | tat | indra | paiṃsyam