Sukta 8.32
अहन्वृत्रमृचीषम और्णवाभमहीशुवम् । हिमेनाविध्यदर्बुदम् ॥
अह॑न्वृ॒त्रमृची॑षम और्णवा॒भम॑ही॒शुव॑म् । हि॒मेना॑विध्य॒दर्बु॑दम् ॥
áhan vr̥trám r̥cī́ṣama aurṇavābhám ahī́śuvam | himénāvidhyad árbudam ||
He smote Vṛtra—keen in the seeing-word—he struck down the ensnarer with the woven web, the serpent-shooter; with the force of cold clarity he pierced Arbuda. Thus the Power of luminous thunder breaks the knot of the Inconscient’s coil and clears the way for the free movement of Truth.
अह॑न् । वृ॒त्रम् । ऋची॑षमः । औ॒र्ण॒ऽवा॒भम् । अ॒ही॒शुव॑म् । हि॒मेन॑ । अ॒वि॒ध्य॒त् । अर्बु॑दम् ॥अहन् । वृत्रम् । ऋचीषमः । और्णवाभम् । अहीशुवम् । हिमेन । अविध्यत् । अर्बुदम् ॥ahan | vṛtram | ṛcīṣamaḥ | aurṇa-vābham | ahīśuvam | himena | avidhyat | arbudam