Sukta 8.32
य उद्नः फलिगं भिनन्न्यक्सिन्धूँरवासृजत् । यो गोषु पक्वं धारयत् ॥
य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१॒॑क्सिन्धूँ॑र॒वासृ॑जत् । यो गोषु॑ प॒क्वं धा॒रय॑त् ॥
yá udnáḥ phaligáṃ bhinán nyàk síndhūn avā́sr̥jat | yó góṣu pakváṃ dhā́rayat ||
He who split open the obstructing cover of the waters and released the rivers downward into their free course; he who upheld the ripened plenitude within the herds of Light—this is that Power (Indra) who breaks the inner confinement and establishes the fulfilled gain.
यः । उ॒द्नः । फ॒लि॒ऽगम् । भि॒नत् । न्य॑क् । सिन्धू॑न् । अ॒व॒ऽअसृ॑जत् । यः । गोषु॑ । प॒क्वम् । धा॒रय॑त् ॥यः । उद्नः । फलिगम् । भिनत् । न्यक् । सिन्धून् । अवअसृजत् । यः । गोषु । पक्वम् । धारयत् ॥yaḥ | udnaḥ | phali-gam | bhinat | nyak | sindhūn | ava-asṛjat | yaḥ | goṣu | pakvam | dhārayat