Sukta 8.32
सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः । निम्नमापो न सध्र्यक् ॥
सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छन्तु मे॒ गिर॑: । नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥
sū́ryo raśmíṃ yáthā sṛjá tvā yácchantu me gíraḥ | nímnam ā́po na sádhryak ||
As the Sun lets loose his ray, so may my words seize and hold thee; like waters to the deep, they flow straight to their goal—drawing thee inward to the right place.
सूर्यः॑ । र॒श्मिम् । यथा॑ । सृ॒ज॒ । त्वा॒ । य॒च्छ॒न्तु॒ । मे॒ । गिरः॑ । नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥सूर्यः । रश्मिम् । यथा । सृज । त्वा । यच्छन्तु । मे । गिरः । निम्नम् । आपः । न । सध्र्यक् ॥sūryaḥ | raśmim | yathā | sṛja | tvā | yacchantu | me | giraḥ | nimnam | āpaḥ | na | sadhryak