Sukta 8.32
आयन्तारं महि स्थिरं पृतनासु श्रवोजितम् । भूरेरीशानमोजसा ॥
आ॒य॒न्तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जित॑म् । भूरे॒रीशा॑न॒मोज॑सा ॥
āyantā́raṃ máhi sthiráṃ pṛ́tanāsu śrávo-jitam | bhū́rer ī́śānam ójasā ||
Sing of the great and steadfast leader who advances, victorious in battles of the inner field, the lord of abundant plenitude by his strength of being.
आ॒ऽय॒न्तार॑म् । महि॑ । स्थि॒रम् । पृत॑नासु । श्र॒वः॒ऽजित॑म् । भूरेः॑ । ईशा॑नम् । ओज॑सा ॥आयन्तारम् । महि । स्थिरम् । पृतनासु । श्रवःजितम् । भूरेः । ईशानम् । ओजसा ॥āyantāram | mahi | sthiram | pṛtanāsu | śravaḥ-jitam | bhūreḥ | īśānam | ojasā