Sukta 8.32
यो रायोऽवनिर्महान्त्सुपारः सुन्वतः सखा । तमिन्द्रमभि गायत ॥
यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑ । तमिन्द्र॑म॒भि गा॑यत ॥
yó rāyó ’ávanir mahā́nt supā́raḥ sunvatáḥ sákhā | tám índram abhí gāyata ||
He who is the great guardian of the soul’s riches, the good-ferrier, the friend of the presser—sing forth to that Indra, that companion who leads us safely over.
यः । रा॒यः । अ॒वनिः॑ । म॒हान् । सु॒ऽपा॒रः । सु॒न्व॒तः । सखा॑ । तम् । इन्द्र॑म् । अ॒भि । गा॒य॒त॒ ॥यः । रायः । अवनिः । महान् । सुपारः । सुन्वतः । सखा । तम् । इन्द्रम् । अभि । गायत ॥yaḥ | rāyaḥ | avaniḥ | mahān | su-pāraḥ | sunvataḥ | sakhā | tam | indram | abhi | gāyata