Sukta 8.32
यः संस्थे चिच्छतक्रतुरादीं कृणोति वृत्रहा । जरितृभ्यः पुरूवसुः ॥
यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं॑ कृ॒णोति॑ वृत्र॒हा । ज॒रि॒तृभ्य॑: पुरू॒वसु॑: ॥
yáḥ saṃsthé cíc chatákratur ā́d ī́ṃ kṛṇóti vṛtrahā́ | jaritṛ́bhyaḥ purūvásuḥ ||
He who, even in the settled poise, the hundred-skilled Slayer of obstruction, suddenly makes the way; for the singers he becomes the giver of many riches of being.
यः । स॒म्ऽस्थे । चि॒त् । श॒तऽक्र॑तुः । आत् । ई॒म् । कृ॒णोति॑ । वृ॒त्र॒ऽहा । ज॒रि॒तृऽभ्यः॑ । पु॒रु॒ऽवसुः॑ ॥यः । सम्स्थे । चित् । शतक्रतुः । आत् । ईम् । कृणोति । वृत्रहा । जरितृभ्यः । पुरुवसुः ॥yaḥ | sam-sthe | cit | śata-kratuḥ | āt | īm | kṛṇoti | vṛtra-hā | jaritṛ-bhyaḥ | puru-vasuḥ