Sukta 8.3
तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये । येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥
तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये । येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥
tát tvā yā́mi su-vī́ryaṃ tád bráhma pūrvá-cittaye | yéna yátibhyo bhṛ́gave dháne hité yéna práskaṇvam ā́vitha ||
That heroic power of thine I seek; that is the Word for the awakening of the ancient consciousness—by which thou didst aid the striving ones, the Bhṛgu, when the treasure was set, by which thou didst protect Praskaṇva.
तत् । त्व॒ । या॒मि॒ । सु॒ऽवीर्य॑म् । तत् । ब्रह्म॑ । पू॒र्वऽचि॑त्तये । येन॑ । यति॑ऽभ्यः॑ । भृग॑वे । धने॑ । हि॒ते । येन॑ । प्रस्क॑ण्वम् । आवि॑थ ॥तत् । त्व । यामि । सुवीर्यम् । तत् । ब्रह्म । पूर्वचित्तये । येन । यतिभ्यः । भृगवे । धने । हिते । येन । प्रस्कण्वम् । आविथ ॥tat | tva | yāmi | su-vīryam | tat | brahma | pūrva-cittaye | yena | yati-bhyaḥ | bhṛgave | dhane | hite | yena | praskaṇvam | āvitha