Sukta 8.3
येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः । सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥
येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शव॑: । स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥
yéna samudrám asṛ́jo mahī́r apás tád índra vṛ́ṣṇi te śávaḥ | sadyáḥ só asya mahimā́ ná saṃnáśe yáṃ kṣoṇī́r anucakradé ||
By which thou didst send forth the ocean, the great waters—this, O Indra, is thy bull-like force. Immediately his greatness does not diminish, whom the earth-realms follow in their circling course.
येन॑ । स॒मु॒द्रम् । असृ॑जः । म॒हीः । अ॒पः । तत् । इ॒न्द्र॒ । वृष्णि॑ । ते॒ । शवः॑ । स॒द्यः । सः । अ॒स्य॒ । म॒हि॒मा । न । स॒म्ऽनशे॑ । यम् । क्षो॒णीः । अ॒नु॒ऽच॒क्र॒दे ॥येन । समुद्रम् । असृजः । महीः । अपः । तत् । इन्द्र । वृष्णि । ते । शवः । सद्यः । सः । अस्य । महिमा । न । सम्नशे । यम् । क्षोणीः । अनुचक्रदे ॥yena | samudram | asṛjaḥ | mahīḥ | apaḥ | tat | indra | vṛṣṇi | te | śavaḥ | sadyaḥ | saḥ | asya | mahimā | na | sam-naśe | yam | kṣoṇīḥ | anu-cakrade