Sukta 8.3
अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि । अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥
अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि । अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥
asyéd índro vāvṛdhe vṛ́ṣṇyaṃ śávo máde sutásya víṣṇavi | adyā́ tám asya mahimā́nam ā́yavo ’nú ṣṭuvanti pūrváthā ||
By this indeed Indra has grown in his manly force, in the ecstasy of the pressed Soma, O all-pervading One. Today the seekers chant after his greatness as in the ancient way.
अ॒स्य । इत् । इन्द्रः॑ । व॒वृ॒धे॒ । वृष्ण्य॑म् । शवः॑ । मदे॑ । सु॒तस्य॑ । विष्ण॑वि । अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यवः॑ । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥अस्य । इत् । इन्द्रः । ववृधे । वृष्ण्यम् । शवः । मदे । सुतस्य । विष्णवि । अद्य । तम् । अस्य । महिमानम् । आयवः । अनु । स्तुवन्ति । पूर्वथा ॥asya | it | indraḥ | vavṛdhe | vṛṣṇyam | śavaḥ | made | sutasya | viṣṇavi | adya | tam | asya | mahimānam | āyavaḥ | anu | stuvanti | pūrva-thā