Sukta 8.3
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥
अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यव॑: । स॒मी॒ची॒नास॑ ऋ॒भव॒: सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य॑म् ॥
abhí tvā pūrvá-pītaya índra stómebhir ā́yavaḥ | samīcīnā́sa ṛbhávaḥ sám asvaran rudrā́ gṛṇanta pū́rvyam ||
Toward thee for the first drinking, O Indra, the seekers come with hymns. In right accord the Rbhus have raised one sound; the Rudras chant thy ancient might.
अ॒भि । त्वा॒ । पू॒र्वऽपी॑तये । इन्द्र॑ । स्तोमे॑भिः । आ॒यवः॑ । स॒म्ऽई॒ची॒नासः॑ । ऋ॒भवः॑ । सम् । अ॒स्व॒र॒न् । रु॒द्राः । गृ॒ण॒न्त॒ । पूर्व्य॑म् ॥अभि । त्वा । पूर्वपीतये । इन्द्र । स्तोमेभिः । आयवः । सम्ईचीनासः । ऋभवः । सम् । अस्वरन् । रुद्राः । गृणन्त । पूर्व्यम् ॥abhi | tvā | pūrva-pītaye | indra | stomebhiḥ | āyavaḥ | sam-īcīnāsaḥ | ṛbhavaḥ | sam | asvaran | rudrāḥ | gṛṇanta | pūrvyam