Sukta 8.3
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् । इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥
इन्द्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्र॒: सूर्य॑मरोचयत् । इन्द्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे॑ सुवा॒नास॒ इन्द॑वः ॥
índro mahnā́ rodasī paprathác cháva índraḥ sū́ryam arocayat | índre ha víśvā bhúvanāni yemire índre suvānā́sa índavaḥ ||
Indra by his greatness has widened the two worlds by his force; Indra has made the Sun to shine forth. In Indra indeed all worlds find their right holding; in Indra the pressed Soma-streams flow out.
इन्द्रः॑ । म॒ह्ना । रोद॑सी॒ इति॑ । प॒प्र॒थ॒त् । शवः॑ । इन्द्रः॑ । सूर्य॑म् । अ॒रो॒च॒य॒त् । इन्द्रे॑ । ह॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ । इन्द्रे॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥इन्द्रः । मह्ना । रोदसी इति । पप्रथत् । शवः । इन्द्रः । सूर्यम् । अरोचयत् । इन्द्रे । ह । विश्वा । भुवनानि । येमिरे । इन्द्रे । सुवानासः । इन्दवः ॥indraḥ | mahnā | rodasī iti | paprathat | śavaḥ | indraḥ | sūryam | arocayat | indre | ha | viśvā | bhuvanāni | yemire | indre | suvānāsaḥ | indavaḥ