Sukta 8.3
यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः । अस्तं वयो न तुग्र्यम् ॥
यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह॑न्ति॒ वह्न॑यः । अस्तं॒ वयो॒ न तुग्र्य॑म् ॥
yásmā anyé dáśa práti dhúraṃ váhanti váhnayaḥ | ástaṃ váyo ná tugryám ||
To whom the other ten bear the yoke in response—the carriers of the flame-force—like birds to their home at dusk: thus all powers return to that leading principle, the settled resting-place of the journey.
यस्मै॑ । अ॒न्ये । दश॑ । प्रति॑ । धुर॑म् । वह॑न्ति । वह्न॑यः । अस्तम् । वयः॑ । न । तुग्र्य॑म् ॥यस्मै । अन्ये । दश । प्रति । धुरम् । वहन्ति । वह्नयः । अस्तम् । वयः । न । तुग्र्यम् ॥yasmai | anye | daśa | prati | dhuram | vahanti | vahnayaḥ | astam | vayaḥ | na | tugryam