Sukta 8.3
इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये । स त्वं नो मघवन्निन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥
इ॒मे हि ते॑ का॒रवो॑ वाव॒शुर्धि॒या विप्रा॑सो मे॒धसा॑तये । स त्वं नो॑ मघवन्निन्द्र गिर्वणो वे॒नो न शृ॑णुधी॒ हव॑म् ॥
imé hí te kārávo vāvaśúr dhiyā́ víprāso medhá-sātaye | sá tváṃ no maghavann indra girvaṇo venó na śṛṇudhī́ hávam ||
These your singers have cried aloud with inspired thought, O Indra, the illumined ones for the winning of intelligence. So you, for us, O bountiful Indra, lover of hymns, hear the call as a yearning lover hears.
इ॒मे । हि । ते॒ । का॒रवः॑ । वा॒व॒शुः । धि॒या । विप्रा॑सः । मे॒धऽसा॑तये । सः । त्वम् । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । वे॒नः । न । शृ॒णु॒धि॒ । हव॑म् ॥इमे । हि । ते । कारवः । वावशुः । धिया । विप्रासः । मेधसातये । सः । त्वम् । नः । मघवन् । इन्द्र । गिर्वणः । वेनः । न । शृणुधि । हवम् ॥ime | hi | te | kāravaḥ | vāvaśuḥ | dhiyā | viprāsaḥ | medha-sātaye | saḥ | tvam | naḥ | magha-van | indra | girvaṇaḥ | venaḥ | na | śṛṇudhi | havam