Sukta 8.3
युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः । अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि ॥
यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी॑ इन्द्र परा॒वत॑: । अ॒र्वा॒ची॒नो म॑घव॒न्त्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ॥
yúkṣvā hí vṛtrahán-tama harī́ índra parāvátaḥ | arvācī́nó maghaván sóma-pītaye ugrá ṛ́ṣvebhir ā́ gahi ||
Yoke, for indeed, your two tawny powers, O Indra most slayer of the Obstructor, and come from the far realm. Turn hither, O bountiful one, for the drinking of Soma; strong and uplifted with the seers’ ardor, come.
यु॒क्ष्व । हि । वृ॒त्र॒ह॒न्ऽत॒म॒ । हरी॒ इति॑ । इ॒न्द्र॒ । प॒रा॒ऽवतः॑ । अ॒र्वा॒ची॒नः । म॒घ॒ऽव॒न् । सोम॑ऽपीतये । उ॒ग्रः । ऋ॒ष्वेभिः॑ । आ । ग॒हि॒ ॥युक्ष्व । हि । वृत्रहन्तम । हरी इति । इन्द्र । परावतः । अर्वाचीनः । मघवन् । सोमपीतये । उग्रः । ऋष्वेभिः । आ । गहि ॥yukṣva | hi | vṛtrahan-tama | harī iti | indra | parāvataḥ | arvācīnaḥ | magha-van | soma-pītaye | ugraḥ | ṛṣvebhiḥ | ā | gahi