Sukta 8.3
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः । इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥
कण्वा॑ इव॒ भृग॑व॒: सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः । इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यव॑: प्रि॒यमे॑धासो अस्वरन् ॥
kaṇvā́ iva bhṛ́gavaḥ sū́ryā iva víśvam íd dhītám ānaśuḥ | índraṃ stómebhir maháyanta ā́yavaḥ priyá-medhāso asvaran ||
Like the Kaṇvas, like the Bhṛgus, like the Suns, they attained the whole by their concentrated vision. Magnifying Indra with hymns, the Āyus, rich in the dear intelligence, cried out in inspired sound.
कण्वाः॑ऽइव । भृग॑वः । सूर्या॑ऽइव । विश्व॑म् । इत् । धी॒तन् । आ॒न॒शुः॒ । इन्द्र॑म् । स्तोमे॑भिः । म॒हय॑न्तः । आ॒यवः॑ । प्रि॒यऽमे॑धासः । अ॒स्व॒र॒न् ॥कण्वाःइव । भृगवः । सूर्याइव । विश्वम् । इत् । धीतन् । आनशुः । इन्द्रम् । स्तोमेभिः । महयन्तः । आयवः । प्रियमेधासः । अस्वरन् ॥kaṇvāḥ-iva | bhṛgavaḥ | sūryāiva | viśvam | it | dhītan | ānaśuḥ | indram | stomebhiḥ | mahayantaḥ | āyavaḥ | priya-medhāsaḥ | asvaran