Sukta 8.3
उदु त्ये मधुमत्तमा गिरः स्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥
उदु॒ त्ये मधु॑मत्तमा॒ गिर॒: स्तोमा॑स ईरते । स॒त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥
úd u tyé mádhu-mattamā gíraḥ stomā́sa īrate | satrā́-jito dhanásā akṣítotayo vājayánto ráthā iva ||
Up rise those utterances most filled with honey-delight; the hymns surge forth. Ever-victorious, winning the treasure, with unfailing helps they drive the Vāja like chariots pressing on.
उत् । ऊँ॒ इति॑ । त्ये । मधु॑मत्ऽतमाः । गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ । स॒त्रा॒ऽजितः॑ । ध॒न॒ऽसाः । अक्षि॑तऽऊतयः । वा॒ज॒यन्तः॑ । रथाः॑ऽइव ॥उत् । ऊँ इति । त्ये । मधुमत्तमाः । गिरः । स्तोमासः । ईरते । सत्राजितः । धनसाः । अक्षितऊतयः । वाजयन्तः । रथाःइव ॥ut | oṃ iti | tye | madhumat-tamāḥ | giraḥ | stomāsaḥ | īrate | satrājitaḥ | dhana-sāḥ | akṣita-ūtayaḥ | vājayantaḥ | rathāḥ-iva