Sukta 8.3
कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते । कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः ॥
कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषि॒: को विप्र॑ ओहते । क॒दा हवं॑ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ॥
kád u stuvánta ṛtayanta devátā ṛ́ṣiḥ kó vípra ohate | kadā́ hávaṃ maghavann indra sunvatáḥ kád u stuvatá ā́ gamaḥ ||
When will the praising ones, moving in the rhythm of Ṛta, set the godhead in motion? Which seer, which illumined one, can draw you near? When, O bountiful Indra, to the Soma-presser’s call will you come—when to the one who praises will you arrive?
कत् । ऊँ॒ इति॑ । स्तु॒वन्तः॑ । ऋ॒त॒ऽय॒न्त॒ । दे॒वता॑ । ऋषिः॑ । कः । विप्रः॑ । ओ॒ह॒ते॒ । क॒दा । हव॑म् । म॒घ॒व॒न् । इ॒न्द्र॒ । सु॒न्व॒तः । कत् । ऊँ॒ इति॑ । स्तु॒व॒तः । आ । ग॒मः॒ ॥कत् । ऊँ इति । स्तुवन्तः । ऋतयन्त । देवता । ऋषिः । कः । विप्रः । ओहते । कदा । हवम् । मघवन् । इन्द्र । सुन्वतः । कत् । ऊँ इति । स्तुवतः । आ । गमः ॥kat | oṃ iti | stuvantaḥ | ṛta-yanta | devatā | ṛṣiḥ | kaḥ | vipraḥ | ohate | kadā | havam | maghavan | indra | sunvataḥ | kat | oṃ iti | stuvataḥ | ā | gamaḥ