Sukta 8.29
तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः ॥
ति॒ग्ममेको॑ बिभर्ति॒ हस्त॒ आयु॑धं॒ शुचि॑रु॒ग्रो जला॑षभेषजः ॥
tigmám éko bibharti hásta ā́yudhaṃ śúcir ugró jalā́ṣabheṣajaḥ ||
The One bears in his hand the sharp weapon; pure and intense, he is the healer with the remedy that restores the waters of life.
ति॒ग्मम् । एकः॑ । बि॒भ॒र्ति॒ । हस्ते॑ । आयु॑धम् । शुचिः॑ । उ॒ग्रः । जला॑षऽभेषजः ॥तिग्मम् । एकः । बिभर्ति । हस्ते । आयुधम् । शुचिः । उग्रः । जलाषभेषजः ॥tigmam | ekaḥ | bibharti | haste | āyudham | śuciḥ | ugraḥ | jalāṣa-bheṣajaḥ