Sukta 8.29
वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः ॥
वाशी॒मेको॑ बिभर्ति॒ हस्त॑ आय॒सीम॒न्तर्दे॒वेषु॒ निध्रु॑विः ॥
vāśī́m éko bibharti hásta āyasī́m antár devéṣu nídhruviḥ ||
The One bears in his hand the iron adze; within the gods he stands firm—an immovable establisher of the work.
वाशी॑म् । एकः॑ । बि॒भ॒र्ति॒ । हस्ते॑ । आ॒य॒सीम् । अ॒न्तः । दे॒वेषु॑ । निऽध्रु॑विः ॥वाशीम् । एकः । बिभर्ति । हस्ते । आयसीम् । अन्तः । देवेषु । निध्रुविः ॥vāśīm | ekaḥ | bibharti | haste | āyasīm | antaḥ | deveṣu | ni-dhruviḥ