Sukta 8.26
दस्रा हि विश्वमानुषङ्मक्षूभिः परिदीयथः । धियंजिन्वा मधुवर्णा शुभस्पती ॥
द॒स्रा हि विश्व॑मानु॒षङ्म॒क्षूभि॑: परि॒दीय॑थः । धि॒यं॒जि॒न्वा मधु॑वर्णा शु॒भस्पती॑ ॥
dasrā́ hí víśvam ānuṣáṅ makṣū́bhiḥ pari-dī́yathaḥ | dhiyáṃ-jinvā́ madhu-varṇā śúbhas patī́ ||
O wondrous doers, for you swiftly range around all the human world; you quicken the thought, honey-hued, lords of luminous beauty and right shaping.
द॒स्रा । हि । विश्व॑म् । आ॒नु॒षक् । म॒क्षुऽभिः॑ । प॒रि॒ऽदीय॑थः । धि॒य॒म्ऽजि॒न्वा । मधु॑ऽवर्णा । शु॒भः । पती॒ इति॑ ॥दस्रा । हि । विश्वम् । आनुषक् । मक्षुभिः । परिदीयथः । धियम्जिन्वा । मधुवर्णा । शुभः । पती इति ॥dasrā | hi | viśvam | ānuṣak | makṣu-bhiḥ | pari-dīyathaḥ | dhiyam-jinvā | madhu-varṇā | śubhaḥ | patī iti