Sukta 8.26
आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा । उप स्तोमान्तुरस्य दर्शथः श्रिये ॥
आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा । उप॒ स्तोमा॑न्तु॒रस्य॑ दर्शथः श्रि॒ये ॥
ā vām vā́hiṣṭho aśvinā rátho yātu śrutó narā | úpa stómān turásya darśathaḥ śríye ||
Let your best bearer-chariot come, O Aśvins, O two heroes, famed for hearing; draw near to the hymns of the eager striver, to manifest for our increase and beauty of being.
आ । वा॒म् । वाहि॑ष्ठः । अ॒श्वि॒ना॒ । रथः॑ । या॒तु॒ । श्रु॒तः । न॒रा॒ । उप॑ । स्तोमा॑न् । तु॒रस्य॑ । द॒र्श॒थः॒ । श्रि॒ये ॥आ । वाम् । वाहिष्ठः । अश्विना । रथः । यातु । श्रुतः । नरा । उप । स्तोमान् । तुरस्य । दर्शथः । श्रिये ॥ā | vām | vāhiṣṭhaḥ | aśvinā | rathaḥ | yātu | śrutaḥ | narā | upa | stomān | turasya | darśathaḥ | śriye