Sukta 8.26
ता वामद्य हवामहे हव्येभिर्वाजिनीवसू । पूर्वीरिष इषयन्तावति क्षपः ॥
ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू । पू॒र्वीरि॒ष इ॒षय॑न्ता॒वति॑ क्ष॒पः ॥
tā vām adyá havāmahe havyébhir vājínīvasū | pūrvī́r íṣa íṣáyantāv áti kṣapáḥ ||
You two we call today with our offerings, O lords of the plenitude of force; you who set in motion the many ancient impulses of nourishment and increase, passing beyond the nights.
ता । वा॒म् । अ॒द्य । ह॒वा॒म॒हे॒ । ह॒व्येभिः॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । पू॒र्वीः । इ॒षः । इ॒षय॑न्तौ । अति॑ । क्ष॒पः ॥ता । वाम् । अद्य । हवामहे । हव्येभिः । वाजिनीवसू इति वाजिनीवसू । पूर्वीः । इषः । इषयन्तौ । अति । क्षपः ॥tā | vām | adya | havāmahe | havyebhiḥ | vājinīvasūitivājinī-vasū | pūrvīḥ | iṣaḥ | iṣayantau | ati | kṣapaḥ