Sukta 8.26
युवं वरो सुषाम्णे महे तने नासत्या । अवोभिर्याथो वृषणा वृषण्वसू ॥
यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या । अवो॑भिर्याथो वृषणा वृषण्वसू ॥
yuváṃ varo su-sā́mṇe mahé tánē nāsatyā | ávobhir yā́tho vṛṣaṇā vṛṣaṇvasū ||
You two are the chosen boons for a perfect harmony, for the great extension of our being, O Nā́satyas; by your helps you come—O strong ones, possessors of vigorous plenitude.
यु॒वम् । व॒रो॒ इति॑ । सु॒ऽसाम्णे॑ । म॒हे । तने॑ । ना॒स॒त्या॒ । अवः॑ऽभिः । या॒थः॒ । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥युवम् । वरो इति । सुसाम्णे । महे । तने । नासत्या । अवःभिः । याथः । वृषणा । वृषण्वसू इति वृषण्वसू ॥yuvam | varo iti | su-sāmṇe | mahe | tane | nāsatyā | avaḥ-bhiḥ | yāthaḥ | vṛṣaṇā | vṛṣaṇvasūitivṛṣaṇ-vasū