Sukta 8.26
वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् । वहस्व महः पृथुपक्षसा रथे ॥
वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्य॑म् । वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑ ॥
vā́yo yā́hi śivā́ dívo váhasvā sú svaśvyàm | váhasva maháḥ pṛthupákṣasā ráthe ||
O Vāyu, come with auspiciousness from heaven; bear hither thy perfect swiftness of good steeds. Bear also the vast greatness on thy chariot of wide-winged power.
वायो॒ इति॑ । या॒हि । शि॒व॒ । आ । दि॒वः । वह॑स्व । सु । सु॒ऽअश्व्य॑म् । वह॑स्व । म॒हः । पृ॒थु॒ऽपक्ष॑सा । रथे॑ ॥वायो इति । याहि । शिव । आ । दिवः । वहस्व । सु । सुअश्व्यम् । वहस्व । महः । पृथुपक्षसा । रथे ॥vāyo iti | yāhi | śiva | ā | divaḥ | vahasva | su | su-aśvyam | vahasva | mahaḥ | pṛthu-pakṣasā | rathe