Sukta 8.26
त्वष्टुर्जामातरं वयमीशानं राय ईमहे । सुतावन्तो वायुं द्युम्ना जनासः ॥
त्वष्टु॒र्जामा॑तरं व॒यमीशा॑नं रा॒य ई॑महे । सु॒ताव॑न्तो वा॒युं द्यु॒म्ना जना॑सः ॥
tváṣṭur jāmātaraṃ vayám ī́śānaṃ rāyá īmahe | sutā́vanto vāyúṃ dyumnā́ jánāsaḥ ||
We, who have the Soma pressed, seek Vāyu—the son-in-law of Tvaṣṭṛ—master of the plenitudes; we humans (aspire) for luminous powers and victorious brightness.
त्वष्टुः॑ । जामा॑तरम् । व॒यम् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ । सु॒तऽव॑न्तः । वा॒युम् । द्यु॒म्ना । जना॑सः ॥त्वष्टुः । जामातरम् । वयम् । ईशानम् । रायः । ईमहे । सुतवन्तः । वायुम् । द्युम्ना । जनासः ॥tvaṣṭuḥ | jāmātaram | vayam | īśānam | rāyaḥ | īmahe | suta-vantaḥ | vāyum | dyumnā | janāsaḥ