Sukta 8.26
त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे । ग्रावाणं नाश्वपृष्ठं मंहना ॥
त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे॑ । ग्रावा॑णं॒ नाश्व॑पृष्ठं मं॒हना॑ ॥
tvā́ṃ hí supsárastamaṃ nṛsádaneṣu hūmáhe | grā́vāṇaṃ nā́śvapṛṣṭhaṃ maṃhánā ||
For thee—most splendid in thy fair flowing—do we call in the seats of the human being; like a pressing-stone upon the horse-backed (chariot), thou comest with impetuous force.
त्वाम् । हि । सु॒प्सरः॑ऽतमम् । नृ॒ऽसद॑नेषु । हू॒महे॑ । ग्रावा॑णम् । न । अश्व॑ऽपृष्ठम् । मं॒हना॑ ॥त्वाम् । हि । सुप्सरःतमम् । नृसदनेषु । हूमहे । ग्रावाणम् । न । अश्वपृष्ठम् । मंहना ॥tvām | hi | supsaraḥ-tamam | nṛ-sadaneṣu | hūmahe | grāvāṇam | na | aśva-pṛṣṭham | maṃhanā